|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.105. अध्यायः 105
Mahabharata - Udyoga Parva - Chapter Topics
सुमुखाय आयुर्दानश्रवणकुपितेन गरुडेन इन्द्रोपेन्द्रावभ्येत्य दर्पेक्तिः ॥ 1 ॥ उपेन्द्रेण तार्क्ष्यदर्पविमोक्षणाय तदंसे स्वदक्षबाहुविक्षेपे तद्वहनाक्षमेण तेन तत्क्षमापनम् ॥ 2 ॥ कण्वेन सुयोधनंप्रति गरुडनिदर्शनप्रदर्शनपूर्वकं गर्वपरिहारेण पाण्डवैः सह शमविधानम् ॥ 3 ॥ दुर्योधनेन ऊरुताजनपूर्वकं कण्वोपहासे तेन तं प्रति तव ऊरावेव मृत्युर्भविष्यतीति शापदानम् ॥ 4 ॥
Mahabharata - Udyoga Parva - Chapter Text
कण्व उवाच। 5-105-0x(3702)(35473)
गरुडस्तत्र शुश्राव यथावृत्तं महाबलः ।
आयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥ 5-105-1(35474)
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः।
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ॥ 5-105-2(35475)
गरुड उवाच। 5-105-3x(3703)
भगवन्किमवज्ञानाद्वृत्तिः प्रतिहता मम।
कामकारवरं दत्त्वा पुनश्चलितवानसि ॥ 5-105-3(35476)
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे।
आहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥ 5-105-4(35477)
वृतश्चैष महानागः स्थापितः समयश्च मे।
अनेन च मया देव भर्तव्यः प्रसवो महान् ॥ 5-105-5(35478)
एतस्मिंस्तु तथाभूते नान्यं हिंसितुमुत्सहे ।
क्रीडसे कामकारेण देवराज यथेच्छकम् ॥ 5-105-6(35479)
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम।
ये च भृत्या मम गृहे प्रीतिमान्भव वासव ॥ 5-105-7(35480)
`कण्व उवाच। 5-105-8x(3704)
श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा।
त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत् ।
गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत् ॥ 5-105-8(35481)
इन्द्र उवाच। 5-105-9x(3705)
न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि।
दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना ।
श्रत्वा पुरन्दरेणोक्तमुवाच विनतासुतः ॥' 5-105-9(35482)
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्।
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ॥ 5-105-10(35483)
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम।
त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम् ॥ 5-105-11(35484)
ममापि दक्षस्य सुता जननी कश्यपः पिता।
अहमत्युत्सहे लोकान्समन्ताद्वोढुमोजसा ॥ 5-105-12(35485)
असह्यं सर्वभूतानां ममापि विपुलं बलम्।
मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे ॥ 5-105-13(35486)
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः ।
प्रस्रुतः कालकाक्षश्च मयाऽपि दितिजा हताः ॥ 5-105-14(35487)
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्।
वहामि चैवानुजं ते तेन मामवमन्यसे ॥ 5-105-15(35488)
कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः ।
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवं ॥ 5-105-16(35489)
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः ।
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥ 5-105-17(35490)
अदित्यां य इमे जाता बलविक्रमशालिनः ।
त्वमेषां किल सर्वेषां बलेन बलवत्तरः ॥ 5-105-18(35491)
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः ।
विमृश त्वं शनैस्तात कोऽन्वत्र बलवानिति ॥ 5-105-19(35492)
कण्व उवाच। 5-105-20x(3706)
स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम्।
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥ 5-105-20(35493)
गरुत्मन्मन्यसेत्मानं बलवन्तं सुदुर्बलम् ।
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥ 5-105-21(35494)
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे।
अहमेवात्मनात्मानं वहामि त्वां च धारये ॥ 5-105-22(35495)
`न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् ।'
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह।
यद्येनं धारयस्येकं सफलं ते विकत्थितम् ॥ 5-105-23(35496)
इत्युक्त्वा भगवांस्तस्य स्कन्धे बाहुं समासजत् ।
`आरोपितं समुद्वोढुं भारं तं नाशकद्बलात् ।'
निपपात स भारार्तो विहलो नष्टचेतनः ॥ 5-105-24(35497)
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह ।
एकस्या देहशाखायास्तावद्भारममन्यत ॥ 5-105-25(35498)
न त्वेनं पीडयामास बलेन बलवत्तरः।
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ॥ 5-105-26(35499)
व्यात्तास्यः स्रस्तकायश्च विचेता विह्वलः खगः ।
मुमोच पत्राणि तदा गुरुभारप्रपीडितः॥ 5-105-27(35500)
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः।
विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् ॥ 5-105-28(35501)
भगवँल्लोकसारस्य सदृशेन वपुष्मता।
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ॥ 5-105-29(35502)
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः।
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥ 5-105-30(35503)
न हि ज्ञातं बलं देव मया ते परम विभो।
तेन मन्याम्यहं वीर्यमात्मनो न समं परैः ॥ 5-105-31(35504)
कण्व उवाच। 5-105-32x(3707)
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः।
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ॥ 5-105-32(35505)
पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि।
ततः प्रभृति राजेन्द्र सहसर्पेण वर्तते ॥ 5-105-33(35506)
एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः।
गरुडो बलवान्राजन्वैनतेयो महायशाः ॥ 5-105-34(35507)
कण्व उवाच। 5-105-35x(3708)
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे।
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ॥ 5-105-35(35508)
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः ।
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥ 5-105-36(35509)
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ ।
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः ॥ 5-105-37(35510)
तदलं ते विरोधेन शमं गच्छ नृपात्मज ।
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ॥ 5-105-38(35511)
प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः ।
माहात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधरः ॥ 5-105-39(35512)
वैशम्पायन उवाच। 5-105-40x(3709)
दुर्योधनस्तु तच्छ्रुत्वा निश्वसन्भृकुटीमुखः।
राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा ॥ 5-105-40(35513)
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः ।
ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ॥ 5-105-41(35514)
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः।
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ॥ 5-105-42(35515)
` ततः कण्वोऽब्रवीत्क्रुद्धो दुर्योधनमपण्डितम् ।
यस्मादूकं ताडयसि ऊरौ मृत्युर्भविष्यति ॥' ॥ 5-105-43(35516)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चाधिकशततमोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|